|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.240. अध्यायः 240
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति व्यासेन शुकायोक्तब्राह्मणधर्मानुवादः॥ 1॥ ब्राह्मणेभ्यो दानमहिमानुवादः॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
व्यास उवाच। 12-240-0x(6231)(75160)
भूतग्रामे नियुक्तं यत्तदेतत्कीर्तितं मया।
ब्राह्मणस्य तु यत्कृत्यं तत्ते वक्ष्यामि सांप्रतम्॥ 12-240-1(75161)
जातकर्मप्रभृत्यस्य कर्मणां दक्षिणावताम्।
क्रिया स्यादासमावृत्तेराचार्ये वेदपारगे॥ 12-240-2(75162)
अधीत्य वेदानखिलान्गुरुशुश्रूषणे रतः।
गुरूणामनृणो भूत्वा समावर्तेत यज्ञवित्॥ 12-240-3(75163)
आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम्।
आविमोक्षाच्छरीरस्य सोऽवतिष्ठेद्यथाविधि॥ 12-240-4(75164)
प्रजासर्गण दारैश्च ब्रह्मचर्येण वा पुनः।
वने गुरुसकाशे वा यतिधर्मेण वा पुनः॥ 12-240-5(75165)
गृहस्थस्त्वेष धर्माणां सर्वेषां मूलमुच्यते।
यत्र पक्वकषायो हि दान्तः सर्वत्र सिध्यति॥ 12-240-6(75166)
प्रजावान्श्रोत्रियो यज्वा मुक्त एव ऋणैस्त्रिभिः।
अथान्यानाश्रमान्पश्चात्पूतो गच्छेत कर्मभिः॥ 12-240-7(75167)
यत्पृथिव्यां पुण्यतमं विद्यात्स्थानं तदावसेत्।
यतेत तस्मिन्प्रामाण्यं गन्तुं यशसि चोत्तमे॥ 12-240-8(75168)
तपसा वः सुमहता विद्यानां पारणेन वा।
इज्यया वा प्रदानैर्वा विप्राणां वर्धते यशः॥ 12-240-9(75169)
यावदस्य भवत्यस्मिन्कीर्तिर्लोके यशस्करी।
तावत्पुण्यकृताँल्लोकाननन्तान्पुरुषोऽश्नुते॥ 12-240-10(75170)
अध्यापयेदधीयीत याजयेत यजेत वा।
न वृथा प्रतिगृह्णीयान्न च दद्यात्कथंचन॥ 12-240-11(75171)
याज्यतः शिष्यतो वाऽपि कन्याया वा धनं महत्।
यद्यागच्छेद्यजेद्दद्यान्नैकोऽश्नीयात्कथंचन॥ 12-240-12(75172)
गृहमावसतो ह्यस्य नान्यत्तीर्थमुदाहृतम्।
देवर्षिपितृगुर्वर्थं वृद्धातुरबुभुक्षताम्॥ 12-240-13(75173)
अन्तर्हिताभितप्तानां यथाशक्ति बुभूषताम्।
द्रव्याणामतिशक्त्याऽपि देयमेषां कृतादपि॥ 12-240-14(75174)
अर्हतामनुरूपाणां नादेयं ह्यस्ति किंचन।
उच्चैः श्रवसमप्यक्षं काश्यपाय महात्मने।
दत्त्वा जगाम प्रह्लादो लोकान्देवैरभिष्टुतान्॥ 12-240-15(75175)
अनुनीय तथा काव्यः सत्यसन्धो महाव्रतः।
स्वैः प्राणैर्ब्राह्मणप्राणान्परित्राय दिवं गतः॥ 12-240-16(75176)
रन्तिदेवश्च सांकृत्यो वसिष्ठाय महात्मने।
अपः प्रदाय शीतोष्णा नाकपृष्ठे महीयते॥ 12-240-17(75177)
आत्रेयश्चेन्द्रद्रुमये ह्यर्हते विविधं धनम्।
दत्त्वा लोकान्ययौ धीमाननन्तान्स महीपतिः॥ 12-240-18(75178)
शिबिरौशीनरोऽङ्गानि सुतं च प्रियमौरसम्।
ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः॥ 12-240-19(75179)
प्रतर्दनः काशिपतिः प्रदाय नयने स्वके।
ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते॥ 12-240-20(75180)
दिव्यमष्टशलाकं तु सौवर्णं परमर्द्धिमत्।
छत्रं देवावृधो दत्त्वा सराष्ट्रोऽभ्यगमद्दिवम्॥ 12-240-21(75181)
सांकृतिश्च तथाऽऽत्रेयः शिष्येभ्यो ब्रह्म निर्गुणम्।
उपदिश्य महातेजा गतो लोकाननुत्तमान्॥ 12-240-22(75182)
अम्बरीषो गवां दत्त्वा ब्राह्मणेभ्यः प्रतापवान्।
अर्बुदानि दशैकं च सराष्ट्रोऽभ्यगमद्दिवम्॥ 12-240-23(75183)
सावित्री कुण्डले दिव्ये शरीरं जनमेजयः।
ब्राह्मणार्थे परित्यज्य जग्मतुर्लोकमुत्तमम्॥ 12-240-24(75184)
सर्वरत्नं वृषादर्विर्युवनाश्वः प्रियाः स्त्रियः।
रम्यमावसथं चैव दत्त्वामुं लोकमास्थितः॥ 12-240-25(75185)
निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुंधराम्।
ब्राह्मणेभ्यो ददौ चापि गयश्चोर्वी सपत्तनाम्॥ 12-240-26(75186)
अवर्षति च पर्जन्ये सर्वभूतानि भूतकृत।
वसिष्ठो जीवयामास प्रजापतिरिव प्रजाः॥ 12-240-27(75187)
करंधमस्य पुत्रस्तु मरुतो नृपतिस्तथा।
कन्यामङ्गिरसे दत्त्वा दिवमाशु जगाम ह॥ 12-240-28(75188)
ब्रह्मदत्तश्च पाञ्चाल्यो राजा बुद्धिमतां वरः।
निधिं शङ्खं द्विजाग्र्येभ्यो दत्त्वा लोकानवाप्तवान्॥ 12-240-29(75189)
राजा मित्रसहश्चापि वसिष्ठाय महात्मने।
मदयन्तीं प्रियां दत्त्वा तया सह दिवं गतः॥ 12-240-30(75190)
सहस्रजिच्च राजर्षिः प्राणानिंष्टान्महायशाः।
ब्राह्मणार्थं परित्यज्य गतो लोकाननुत्तमान्॥ 12-240-31(75191)
सर्वकामैश्च संपूर्णं दत्त्वा वेश्म हिरण्मयम्।
मुद्गलाय गतः स्वर्गं शतद्युम्नो महीपतिः॥ 12-240-32(75192)
नाम्ना च द्युतिमान्नाम साल्वराजः प्रतापवान्।
दत्त्वा राज्यमृचीकाय गतो लोकाननुत्तमान्॥ 12-240-33(75193)
लोमपादश्च राजर्षिः शान्तां दत्त्वा सुतां प्रभुः।
ऋश्यशृङ्गाय विपुलैः सर्वकामैरयुज्यत॥ 12-240-34(75194)
मदिराश्वश्च राजर्षिर्दत्त्वा कन्यां सुमध्यमाम्।
हिरण्यहस्ताय गतो लोकान्देवैरभिष्टुतान्॥ 12-240-35(75195)
दत्त्वा शतसहस्रं तु गवां राजा प्रसेनजित्।
सवत्सानां महातेजा गतो लोकाननुत्तमान्॥ 12-240-36(75196)
एते चान्ये च बहवो दानेन तपसैव च।
महात्मानो गताः स्वर्गं शिष्टात्मानो जितेन्द्रियाः॥ 12-240-37(75197)
तेषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी।
दानयज्ञप्रजासर्गैरेते हि दिवमाप्नुवन्॥ ॥ 12-240-38(75198)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चत्वारिंशदधिकद्विशततमोऽध्यायः॥ 240॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-240-14 कृतात्पक्वान्नादपि॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|